(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Aadiparv (Mahabharat) - आदिपर्व (महाभारत)


॥ श्रीः ॥
1.76. अध्यायः 076
Mahabharata - Adi Parva - Chapter Topics
देवयान्याः पुत्रोत्पत्तिः॥ 1 ॥ अशोकवनिकायां शर्मिष्ठाया ययातिसमागमात्पुत्रोत्पत्तिः॥ 2 ॥
Mahabharata - Adi Parva - Chapter Text

वैशम्पायन उवाच। 1-76-0x(427)(3450)
ययातिः स्वपुरं प्राप्य महेन्द्रपुरसंनिभम्।
प्रविश्यान्तःपुरं तत्र देवयानीं न्यवेशयत्॥ 1-76-1(3451)
देवयान्याश्चानुमते सुतां तां वृषपर्वणः।
अशोकवनिकाभ्याशे गृहं कृत्वा न्यवेशयत्॥ 1-76-2(3452)
वृतां दासीसहस्रेण शर्मिष्ठां वार्षपर्वणीम्।
वासोभरन्नपानैश्च संविभज्य सुसत्कृताम्॥ 1-76-3(3453)
देवयान्या तु सहितः स नृपो नहुषात्मजः।
`प्रीत्या परमया युक्तो मुमुदे शाश्वतीः समाः॥ 1-76-4(3454)
अशोकवनिकामध्ये देवयानी समागता।
शर्मिष्ठया सा क्रीडित्वा रमणीये मनोरमे॥ 1-76-5(3455)
तत्रैव तां तु निर्दिश्य राज्ञा सह ययौ गृहम्।
एवमेव सह प्रीत्या बहु कालं मुमोद च॥' 1-76-6(3456)
विजहार बहूनब्दान्देववन्मुदितः सुखी॥ 1-76-7(3457)
ऋतुकाले तु संप्राप्ते देवयानी वराङ्गना।
लेभे गर्भं प्रथमतः कुमारं च व्यजायत॥ 1-76-8(3458)
गते वर्षसहस्रे तु शर्मिष्ठा वार्षपर्वणी।
ददर्श यौवनं प्राप्ता ऋतुं सा चान्वचिन्तयत्॥ 1-76-9(3459)
`शुद्धा स्नाता तु शर्मिष्ठा सर्वालङ्कारशोभिता।
अशोकशाखामालम्ब्य सुपुष्पस्तबकैर्वृताम्॥ 1-76-10(3460)
आदर्शे मुखमुद्वीक्ष्य भर्तुर्दर्शनलालसा।
शोकमोहसमाविष्टा वचनं चेदमब्रवीत्॥ 1-76-11(3461)
अशोक शोकापनुद शोकोपहतचेतसाम्।
त्वन्नामानं कुरुष्वाद्य प्रियसंदर्शनेन माम्।
एवमुक्तवती सा तु शर्मिष्ठा पुनरब्रवीत्॥' 1-76-12(3462)
ऋतुकालश्च संप्राप्तो न च मेऽस्ति वृतः पतिः।
किं प्राप्तं किं नु कर्तव्यं किं वा कृत्वा सुखं भवेत्॥ 1-76-13(3463)
देवयानी प्रजाताऽसौ वृथाऽहं प्राप्तयौवना।
यथा तया वृतो भर्ता तथैवाहं वृणोमि तम्॥ 1-76-14(3464)
राज्ञा पुत्रफलं देयमिति मे निश्चिता मतिः।
अपीदानीं स धर्मात्मा ईयान्मे दर्शनं रहः॥ 1-76-15(3465)
`केशैर्बध्या तु राजानं याचेऽहं सदृशं पतिम्।
स्पृहेदिदं देवयानी पुत्रमीक्ष्य पुनःपुनः।
क्रीडन्नन्तःपुरे तस्याः क्वचित्क्षणमवाप्य च॥ 1-76-16(3466)
वैशम्पायन उवाच।' 1-76-17x(428)
अथ निष्क्रम्य राजाऽसौ तस्मिन्काले यदृच्छया।
अशोकवनिकाभ्याशे शर्मिष्ठां प्राप तिष्ठतीम्॥ 1-76-17(3467)
तमेकं रहिते दृष्ट्वा शर्मिष्ठा चारुहासिनी।
प्रत्युद्गम्याञ्जलिं कृत्वा राजानं वाक्यमब्रवीत्॥ 1-76-18(3468)
शर्मिष्ठोवाच। 1-76-19x(429)
सोमस्येन्द्रस्य विष्णोर्वा यमस्य वरुणस्य वा।
तव वा नाहुष गृहे कः स्त्रियं द्रष्टुमर्हति॥ 1-76-19(3469)
रूपाभिजनशीलैर्हि त्वं राजन्वेत्थ मां सदा।
सा त्वां याचे प्रसाद्याहमृतुं देहि नराधिप॥ 1-76-20(3470)
ययातिरुवाच। 1-76-21x(430)
वेद्मि त्वां शीलसंपन्नां दैत्यकन्यामनिन्दिताम्।
रूपं च ते न पश्यामि सूच्यग्रमपि निन्दितम्॥ 1-76-21(3471)
`तदाप्रभृति दृष्ट्वा त्वां स्मराम्यनिशमुत्तमे'।
अब्रवीदुशना काव्यो देवयानीं यदाऽवहम्।
नेयमाह्वयितव्या ते शयने वार्षपर्वणी॥ 1-76-22(3472)
`देवयान्याः प्रियं कृत्वा शर्मिष्ठामपि पोषय॥' 1-76-23(3473)
शर्मिष्ठोवाच। 1-76-24x(431)
न नर्मयुक्तमनृतं हिनस्ति
न स्त्रीषु राजन्न विवाहकाले।
प्राणात्यये सर्वधनापहारे
पञ्चानृतान्याहुरपातकानि॥ 1-76-24(3474)
पृष्टं तु साक्ष्ये प्रवदन्तमन्यथा
वदन्ति मिथ्या पतितं नरेन्द्र।
एकार्थतायां तु समाहितायां
मिथ्या वदन्तं ह्यनृतं हिनस्ति॥ 1-76-25(3475)
`अनृतं नानृतं स्त्रीषु परिहासविवाहयोः।
आत्मप्राणार्थघाते च तदेवोत्तमतां व्रजेत्॥' 1-76-26(3476)
ययातिरुवाच। 1-76-27x(432)
राजा प्रमाणं भूतानां स नश्येत मृषा वदन्।
अर्थकृच्छ्रमपि प्राप्य न मिथ्या कर्तुमुत्सहे॥ 1-76-27(3477)
शर्मिष्ठोवाच। 1-76-28x(433)
समावेतौ मतो राजन्पतिः सख्याश्च यः पतिः।
समं विवाहमित्याहुः सख्या मेऽसि वृतः पतिः॥ 1-76-28(3478)
`सह दत्तास्मि काव्येन देवयान्या मनीषिणा।
पूज्या पोषयितव्येति न मृषा कर्तुमर्हसि॥' 1-76-29(3479)
सुवर्णमणिमुक्तानि वस्त्राण्याभरणानि च।
याचितॄणां ददासि त्वं गोभूम्यादीनि यानि च॥ 1-76-30(3480)
बहिःस्थं दानमित्युक्तं न शरीराश्रितं नृप।
दुष्करं पुत्रदानं च आत्मदानं च दुष्करम्॥ 1-76-31(3481)
शरीरदानात्तत्सर्वं दत्तं भवति मारिष।
यस्य यस्य यथा कामस्तस्य तस्य ददाम्यहम्॥ 1-76-32(3482)
इत्युक्त्वा नगरे राजंस्त्रिकालं घोषितं त्वया।
त्वयोक्तमनृतं राजन्वृथा घोषितमेव वा।
तत्सत्यं कुरु राजेन्द्र यथा वैश्रवणस्तथा॥ 1-76-33(3483)
ययातिरुवाच। 1-76-34x(434)
दातव्यं याचमानेभ्य इति मे व्रतमाहितम्।
त्वं च याचसि मां कामं ब्रूहि किं करवाणि ते॥ 1-76-34(3484)
`धनं वा यदि वा किंचिद्राज्यं वाऽपि शुचिस्मिते।' 1-76-35(3485)
शर्मिष्ठोवाच।
अधर्मात्पाहि मां राजन्धर्मं च प्रतिपादय॥ 1-76-35x(435)
`नान्यं वृणे पुत्रकामा पुत्रात्परतरं न च।'
त्वत्तोऽपत्यवती लोके चरेयं धर्ममुत्तमम्॥ 1-76-36(3486)
त्रय एवाधना राजन्भार्या दासस्तथा सुतः।
यत्ते समधिगच्छन्ति यस्यैते तस्य तद्धनम्॥ 1-76-37(3487)
`पुत्रार्थं भर्तृपोषार्थं स्त्रियः सृष्टाः स्वयंभुवा।
अपतिर्वापि या कन्या अनपत्या च या भवेत्।
तासां जन्म वृथा लोके गतिस्तासां न विद्यते॥' 1-76-38(3488)
देवयान्या भुजिष्याऽस्मि वश्या च तव भार्गवी।
सा चाहं च त्वया राजन्भजनीये भजस्व माम्॥ 1-76-39(3489)
वैशम्पायन उवाच। 1-76-40x(436)
एवमुक्तस्तु राजा स तथ्यमित्यभिजज्ञिवान्।
पूजयामास शर्मिष्ठां धर्मं च प्रत्यपादयत्॥ 1-76-40(3490)
स समागम्य शर्मिष्ठां यथा काममवाप्य च।
अन्योन्यं चाभिसंपूज्य जग्मतुस्तौ यथागतम्॥ 1-76-41(3491)
तस्मिन्समागमे सुभ्रूः शर्मिष्ठा चारुहासिनी।
लेभे गर्भं प्रथमतस्तस्मान्नृपतिसत्तमात्॥ 1-76-42(3492)
प्रयज्ञे च ततः काले राजन्राजीवलोचना।
कुमारं देवगर्भाभं राजीवनिभलोचनम्॥ ॥ 1-76-43(3493)

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि षट्सप्ततितमोऽध्यायः॥ 76 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.